|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.58. अध्यायः 058
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति शिबिवैभवशंसनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-58-0x(4413)(47014)
शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम।
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत्॥ 7-58-1(47015)
साद्रिद्वीपार्णववनां रथघोषेण नादयन्।
स शिबिर्यष्टुमन्विच्छन्मुख्यः सर्वसपत्नजित्॥ 7-58-2(47016)
तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः।
अविहिंस्य जनानन्यानवाप वसु पुष्कलम्॥ 7-58-3(47017)
सर्वमूर्धाभिषिक्तानां सम्मतः सोऽभवद्युधि।
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम्॥ 7-58-4(47018)
निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः।
`बिभर्ति दक्षिणा यस्य गङ्गायाः स्रोत आवृणोत्'॥ 7-58-5(47019)
हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा।
विविधैः पृथिवीं पुण्यां शिबिर्ब्राह्मणसात्करोत्॥ 7-58-6(47020)
यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः।
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः॥ 7-58-7(47021)
उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च।
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे॥ 7-58-8(47022)
नोद्यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः।
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम्॥ 7-58-9(47023)
तस्यासन्विविधा यज्ञाः सर्वकामैः समन्विताः।
हेमयूपासनगृहा हेमप्राकारतोरणाः॥ 7-58-10(47024)
शुचिस्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः।
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाहदाः॥ 7-58-11(47025)
तस्यासन्यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः।
पिबत स्नात खादध्वमिति यत्रोच्यते जनैः॥ 7-58-12(47026)
यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा।
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः॥ 7-58-13(47027)
यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम्।
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः॥ 7-58-14(47028)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-58-15(47029)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टपञ्चाशत्तमोऽध्यायः॥ 58 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-58-1 पर्यवेष्टयत् स्वाधीनामकरोत्॥ 5-58-5 कोटिसहस्रशः इति क.घ.ङ.पाठः॥ 5-58-9 तस्य शिबेर्धुरः कार्यभारस्य उयन्तारं वोढारं प्रज्ञापतिः स्रष्टा स्वसृष्टौ नाध्यगच्छत्॥ 5-58-13 ददतो राज्ञो वित्तादिकमक्षयमस्त्विति रुद्रो वरं ददाविति सम्बन्धः॥ 5-58-58 अष्टपञ्चाशत्तमोऽध्यायः॥ 58 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|